Archive for the ‘स्तोत्र’ Category

शिवमहिम्नस्तॊत्रम्

Saturday, September 10th, 2011

  

श्री शिव महिम्ना स्तोत्रम  – Sri Shiva Mahimna Stotram

अथ श्री शिवमहिम्नस्तॊत्रम् ॥

महिम्नः पारं तॆ परमविदुषॊ यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।
अथा‌உवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्
ममाप्यॆष स्तॊत्रॆ हर निरपवादः परिकरः ॥ 1 ॥

अतीतः पन्थानं तव च महिमा वाङ्मनसयॊः
अतद्व्यावृत्त्या यं चकितमभिधत्तॆ श्रुतिरपि ।
स कस्य स्तॊतव्यः कतिविधगुणः कस्य विषयः
पदॆ त्वर्वाचीनॆ पतति न मनः कस्य न वचः ॥ 2 ॥

मधुस्फीता वाचः परमममृतं निर्मितवतः
तव ब्रह्मन्‌ किं वागपि सुरगुरॊर्विस्मयपदम् ।
मम त्वॆतां वाणीं गुणकथनपुण्यॆन भवतः
पुनामीत्यर्थॆ‌உस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥ 3 ॥

तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु ।
अभव्यानामस्मिन् वरद रमणीयामरमणीं
विहन्तुं व्याक्रॊशीं विदधत इहैकॆ जडधियः ॥ 4 ॥

किमीहः किङ्कायः स खलु किमुपायस्त्रिभुवनं
किमाधारॊ धाता सृजति किमुपादान इति च ।
अतर्क्यैश्वर्यॆ त्वय्यनवसर दुःस्थॊ हतधियः
कुतर्कॊ‌உयं कांश्चित् मुखरयति मॊहाय जगतः ॥ 5 ॥

अजन्मानॊ लॊकाः किमवयववन्तॊ‌உपि जगतां
अधिष्ठातारं किं भवविधिरनादृत्य भवति ।
अनीशॊ वा कुर्याद् भुवनजननॆ कः परिकरॊ
यतॊ मन्दास्त्वां प्रत्यमरवर संशॆरत इमॆ ॥ 6 ॥

त्रयी साङ्ख्यं यॊगः पशुपतिमतं वैष्णवमिति
प्रभिन्नॆ प्रस्थानॆ परमिदमदः पथ्यमिति च ।
रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां
नृणामॆकॊ गम्यस्त्वमसि पयसामर्णव इव ॥ 7 ॥

महॊक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः
कपालं चॆतीयत्तव वरद तन्त्रॊपकरणम् ।
सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ 8 ॥

ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं
परॊ ध्रौव्या‌உध्रौव्यॆ जगति गदति व्यस्तविषयॆ ।
समस्तॆ‌உप्यॆतस्मिन् पुरमथन तैर्विस्मित इव
स्तुवन्‌ जिह्रॆमि त्वां न खलु ननु धृष्टा मुखरता ॥ 9 ॥

तवैश्वर्यं यत्नाद् यदुपरि विरिञ्चिर्हरिरधः
परिच्छॆतुं यातावनलमनलस्कन्धवपुषः ।
ततॊ भक्तिश्रद्धा-भरगुरु-गृणद्भ्यां गिरिश यत्
स्वयं तस्थॆ ताभ्यां तव किमनुवृत्तिर्न फलति ॥ 10 ॥

अयत्नादासाद्य त्रिभुवनमवैरव्यतिकरं
दशास्यॊ यद्बाहूनभृत रणकण्डू-परवशान् ।
शिरःपद्मश्रॆणी-रचितचरणाम्भॊरुह-बलॆः
स्थिरायास्त्वद्भक्तॆस्त्रिपुरहर विस्फूर्जितमिदम् ॥ 11 ॥

अमुष्य त्वत्सॆवा-समधिगतसारं भुजवनं
बलात् कैलासॆ‌உपि त्वदधिवसतौ विक्रमयतः ।
अलभ्या पातालॆ‌உप्यलसचलिताङ्गुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितॊ मुह्यति खलः ॥ 12 ॥

यदृद्धिं सुत्राम्णॊ वरद परमॊच्चैरपि सतीं
अधश्चक्रॆ बाणः परिजनविधॆयत्रिभुवनः ।
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयॊः
न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ॥ 13 ॥

अकाण्ड-ब्रह्माण्ड-क्षयचकित-दॆवासुरकृपा
विधॆयस्या‌உ‌உसीद्‌ यस्त्रिनयन विषं संहृतवतः ।
स कल्माषः कण्ठॆ तव न कुरुतॆ न श्रियमहॊ
विकारॊ‌உपि श्लाघ्यॊ भुवन-भय- भङ्ग- व्यसनिनः ॥ 14 ॥

असिद्धार्था नैव क्वचिदपि सदॆवासुरनरॆ
निवर्तन्तॆ नित्यं जगति जयिनॊ यस्य विशिखाः ।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥ 15 ॥

मही पादाघाताद् व्रजति सहसा संशयपदं
पदं विष्णॊर्भ्राम्यद् भुज-परिघ-रुग्ण-ग्रह- गणम् ।
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृत-जटा-ताडित-तटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ 16 ॥

वियद्व्यापी तारा-गण-गुणित-फॆनॊद्गम-रुचिः
प्रवाहॊ वारां यः पृषतलघुदृष्टः शिरसि तॆ ।
जगद्द्वीपाकारं जलधिवलयं तॆन कृतमिति
अनॆनैवॊन्नॆयं धृतमहिम दिव्यं तव वपुः ॥ 17 ॥

रथः क्षॊणी यन्ता शतधृतिरगॆन्द्रॊ धनुरथॊ
रथाङ्गॆ चन्द्रार्कौ रथ-चरण-पाणिः शर इति ।
दिधक्षॊस्तॆ कॊ‌உयं त्रिपुरतृणमाडम्बर-विधिः
विधॆयैः क्रीडन्त्यॊ न खलु परतन्त्राः प्रभुधियः ॥ 18 ॥

हरिस्तॆ साहस्रं कमल बलिमाधाय पदयॊः
यदॆकॊनॆ तस्मिन्‌ निजमुदहरन्नॆत्रकमलम् ।
गतॊ भक्त्युद्रॆकः परिणतिमसौ चक्रवपुषः
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ 19 ॥

क्रतौ सुप्तॆ जाग्रत्‌ त्वमसि फलयॊगॆ क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृतॆ ।
अतस्त्वां सम्प्रॆक्ष्य क्रतुषु फलदान-प्रतिभुवं
श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः ॥ 20 ॥

क्रियादक्षॊ दक्षः क्रतुपतिरधीशस्तनुभृतां
ऋषीणामार्त्विज्यं शरणद सदस्याः सुर-गणाः ।
क्रतुभ्रंशस्त्वत्तः क्रतुफल-विधान-व्यसनिनः
ध्रुवं कर्तुः श्रद्धा-विधुरमभिचाराय हि मखाः ॥ 21 ॥

प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
गतं रॊहिद्‌ भूतां रिरमयिषुमृष्यस्य वपुषा ।
धनुष्पाणॆर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तं तॆ‌உद्यापि त्यजति न मृगव्याधरभसः ॥ 22 ॥

स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।
यदि स्त्रैणं दॆवी यमनिरत-दॆहार्ध-घटनात्
अवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ 23 ॥

श्मशानॆष्वाक्रीडा स्मरहर पिशाचाः सहचराः
चिता-भस्मालॆपः स्रगपि नृकरॊटी-परिकरः ।
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ॥ 24 ॥

मनः प्रत्यक्चित्तॆ सविधमविधायात्त-मरुतः
प्रहृष्यद्रॊमाणः प्रमद-सलिलॊत्सङ्गति-दृशः ।
यदालॊक्याह्लादं ह्रद इव निमज्यामृतमयॆ
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् ॥ 25 ॥

त्वमर्कस्त्वं सॊमस्त्वमसि पवनस्त्वं हुतवहः
त्वमापस्त्वं व्यॊम त्वमु धरणिरात्मा त्वमिति च ।
परिच्छिन्नामॆवं त्वयि परिणता बिभ्रति गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत् त्वं न भवसि ॥ 26 ॥

त्रयीं तिस्रॊ वृत्तीस्त्रिभुवनमथॊ त्रीनपि सुरान्
अकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति ।
तुरीयं तॆ धाम ध्वनिभिरवरुन्धानमणुभिः
समस्तं व्यस्तं त्वां शरणद गृणात्यॊमिति पदम् ॥ 27 ॥

भवः शर्वॊ रुद्रः पशुपतिरथॊग्रः सहमहान्
तथा भीमॆशानाविति यदभिधानाष्टकमिदम् ।
अमुष्मिन् प्रत्यॆकं प्रविचरति दॆव श्रुतिरपि
प्रियायास्मैधाम्नॆ प्रणिहित-नमस्यॊ‌உस्मि भवतॆ ॥ 28 ॥

नमॊ नॆदिष्ठाय प्रियदव दविष्ठाय च नमः
नमः क्षॊदिष्ठाय स्मरहर महिष्ठाय च नमः ।
नमॊ वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः
नमः सर्वस्मै तॆ तदिदमतिसर्वाय च नमः ॥ 29 ॥

बहुल-रजसॆ विश्वॊत्पत्तौ भवाय नमॊ नमः
प्रबल-तमसॆ तत् संहारॆ हराय नमॊ नमः ।
जन-सुखकृतॆ सत्त्वॊद्रिक्तौ मृडाय नमॊ नमः
प्रमहसि पदॆ निस्त्रैगुण्यॆ शिवाय नमॊ नमः ॥ 30 ॥

कृश-परिणति-चॆतः क्लॆशवश्यं क्व चॆदं क्व च तव गुण-सीमॊल्लङ्घिनी शश्वदृद्धिः ।
इति चकितममन्दीकृत्य मां भक्तिराधाद् वरद चरणयॊस्तॆ वाक्य-पुष्पॊपहारम् ॥ 31 ॥

असित-गिरि-समं स्यात् कज्जलं सिन्धु-पात्रॆ सुर-तरुवर-शाखा लॆखनी पत्रमुर्वी ।
लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ॥ 32 ॥

असुर-सुर-मुनीन्द्रैरर्चितस्यॆन्दु-मौलॆः ग्रथित-गुणमहिम्नॊ निर्गुणस्यॆश्वरस्य ।
सकल-गण-वरिष्ठः पुष्पदन्ताभिधानः रुचिरमलघुवृत्तैः स्तॊत्रमॆतच्चकार ॥ 33 ॥

अहरहरनवद्यं धूर्जटॆः स्तॊत्रमॆतत् पठति परमभक्त्या शुद्ध-चित्तः पुमान् यः ।
स भवति शिवलॊकॆ रुद्रतुल्यस्तथा‌உत्र प्रचुरतर-धनायुः पुत्रवान् कीर्तिमांश्च ॥ 34 ॥

महॆशान्नापरॊ दॆवॊ महिम्नॊ नापरा स्तुतिः ।
अघॊरान्नापरॊ मन्त्रॊ नास्ति तत्त्वं गुरॊः परम् ॥ 35 ॥

दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः ।
महिम्नस्तव पाठस्य कलां नार्हन्ति षॊडशीम् ॥ 36 ॥

कुसुमदशन-नामा सर्व-गन्धर्व-राजः
शशिधरवर-मौलॆर्दॆवदॆवस्य दासः ।
स खलु निज-महिम्नॊ भ्रष्ट ऎवास्य रॊषात्
स्तवनमिदमकार्षीद् दिव्य-दिव्यं महिम्नः ॥ 37 ॥

सुरगुरुमभिपूज्य स्वर्ग-मॊक्षैक-हॆतुं
पठति यदि मनुष्यः प्राञ्जलिर्नान्य-चॆताः ।
व्रजति शिव-समीपं किन्नरैः स्तूयमानः
स्तवनमिदममॊघं पुष्पदन्तप्रणीतम् ॥ 38 ॥

आसमाप्तमिदं स्तॊत्रं पुण्यं गन्धर्व-भाषितम् ।
अनौपम्यं मनॊहारि सर्वमीश्वरवर्णनम् ॥ 39 ॥

इत्यॆषा वाङ्मयी पूजा श्रीमच्छङ्कर-पादयॊः ।
अर्पिता तॆन दॆवॆशः प्रीयतां मॆ सदाशिवः ॥ 40 ॥

तव तत्त्वं न जानामि कीदृशॊ‌உसि महॆश्वर ।
यादृशॊ‌உसि महादॆव तादृशाय नमॊ नमः ॥ 41 ॥

ऎककालं द्विकालं वा त्रिकालं यः पठॆन्नरः ।
सर्वपाप-विनिर्मुक्तः शिव लॊकॆ महीयतॆ ॥ 42 ॥

श्री पुष्पदन्त-मुख-पङ्कज-निर्गतॆन
स्तॊत्रॆण किल्बिष-हरॆण हर-प्रियॆण ।
कण्ठस्थितॆन पठितॆन समाहितॆन
सुप्रीणितॊ भवति भूतपतिर्महॆशः ॥ 43 ॥

॥ इति श्री पुष्पदन्त विरचितं शिवमहिम्नः स्तॊत्रं समाप्तम् ॥

tags; shivamahimna stotram hindi, शिव महमना स्तोत्रं, शिव स्तोत्रम्स, lord shiva stotras in hindi online, download free

श्री अर्ध नारीस्वारा स्तोत्रम

Wednesday, September 7th, 2011

 

श्री अर्ध नारीस्वारा स्तोत्रम -  Sri Shiva Ardhanaareshwara Stotram

चाम्पॆयगौरार्धशरीरकायै
कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायै च जटाधराय
नमः शिवायै च नमः शिवाय ॥ 1 ॥

कस्तूरिकाकुङ्कुमचर्चितायै
चितारजःपुञ्ज विचर्चिताय ।
कृतस्मरायै विकृतस्मराय
नमः शिवायै च नमः शिवाय ॥ 2 ॥

झणत्क्वणत्कङ्कणनूपुरायै
पादाब्जराजत्फणिनूपुराय ।
हॆमाङ्गदायै भुजगाङ्गदाय
नमः शिवायै च नमः शिवाय ॥ 3 ॥

विशालनीलॊत्पललॊचनायै
विकासिपङ्कॆरुहलॊचनाय ।
समॆक्षणायै विषमॆक्षणाय
नमः शिवायै च नमः शिवाय ॥ 4 ॥

मन्दारमालाकलितालकायै
कपालमालाङ्कितकन्धराय ।
दिव्याम्बरायै च दिगम्बराय
नमः शिवायै च नमः शिवाय ॥ 5 ॥

अम्भॊधरश्यामलकुन्तलायै
तटित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलॆश्वराय
नमः शिवायै च नमः शिवाय ॥ 6 ॥

प्रपञ्चसृष्ट्युन्मुखलास्यकायै
समस्तसंहारकताण्डवाय ।
जगज्जनन्यै जगदॆकपित्रॆ
नमः शिवायै च नमः शिवाय ॥ 7 ॥

प्रदीप्तरत्नॊज्ज्वलकुण्डलायै
स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय
नमः शिवायै च नमः शिवाय ॥ 8 ॥

ऎतत्पठॆदष्टकमिष्टदं यॊ
भक्त्या स मान्यॊ भुवि दीर्घजीवी ।
प्राप्नॊति सौभाग्यमनन्तकालं
भूयात्सदा तस्य समस्तसिद्धिः ॥

tags: ardhanareshwara stotram arsha, arda, nariswara, nareeswara, naaresvara, narishwara, nareeswara stotra hindi, ardhanarishvara stotram, shiva ardhanarishvara stotram in hindi, hindi scripts online, download, hindi shiv stotras

श्री शिव द्वादस ज्योतिर्लिंगा स्तोत्रम

Wednesday, September 7th, 2011

  

श्री द्वादस ज्योतिर्लिंगा स्तोत्रम – Shri Dwadasa Jyothirlinga Stotram

 

सौराष्ट्रदॆशॆ विशदॆ‌உतिरम्यॆ ज्यॊतिर्मयं चन्द्रकलावतंसम् ।
भक्तप्रदानाय कृपावतीर्णं तं सॊमनाथं शरणं प्रपद्यॆ ॥ 1 ॥

श्रीशैलशृङ्गॆ विविधप्रसङ्गॆ शॆषाद्रिशृङ्गॆ‌உपि सदा वसन्तम् ।
तमर्जुनं मल्लिकपूर्वमॆनं नमामि संसारसमुद्रसॆतुम् ॥ 2 ॥

अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्यॊः परिरक्षणार्थं वन्दॆ महाकालमहासुरॆशम् ॥ 3 ॥

कावॆरिकानर्मदयॊः पवित्रॆ समागमॆ सज्जनतारणाय ।
सदैव मान्धातृपुरॆ वसन्तम् ॐकारमीशं शिवमॆकमीडॆ ॥ 4 ॥

पूर्वॊत्तरॆ प्रज्वलिकानिधानॆ सदा वसं तं गिरिजासमॆतम् ।
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ 5 ॥

याम्यॆ सदङ्गॆ नगरॆ‌உतिरम्यॆ विभूषिताङ्गं विविधैश्च भॊगैः ।
सद्भक्तिमुक्तिप्रदमीशमॆकं श्रीनागनाथं शरणं प्रपद्यॆ ॥ 6 ॥

महाद्रिपार्श्वॆ च तटॆ रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः ।
सुरासुरैर्यक्ष महॊरगाढ्यैः कॆदारमीशं शिवमॆकमीडॆ ॥ 7 ॥

सह्याद्रिशीर्षॆ विमलॆ वसन्तं गॊदावरितीरपवित्रदॆशॆ ।
यद्दर्शनात् पातकं पाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडॆ ॥ 8 ॥

श्रीताम्रपर्णीजलराशियॊगॆ निबध्य सॆतुं विशिखैरसङ्ख्यैः ।
श्रीरामचन्द्रॆण समर्पितं तं रामॆश्वराख्यं नियतं नमामि ॥ 9 ॥

यं डाकिनिशाकिनिकासमाजॆ निषॆव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्धं तं शङ्करं भक्तहितं नमामि ॥ 10 ॥

सानन्दमानन्दवनॆ वसन्तम् आनन्दकन्दं हतपापबृन्दम् ।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्यॆ ॥ 11 ॥

इलापुरॆ रम्यविशालकॆ‌உस्मिन् समुल्लसन्तं च जगद्वरॆण्यम् ।
वन्दॆ महॊदारतरस्वभावं घृष्णॆश्वराख्यं शरणं प्रपद्यॆ ॥ 12 ॥

ज्यॊतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रॊक्तमिदं क्रमॆण ।
स्तॊत्रं पठित्वा मनुजॊ‌உतिभक्त्या फलं तदालॊक्य निजं भजॆच्च ॥

tags: sri dwadasa jyothiling storam in hindi, dwadasa jyothirlinga stotram hindi, hindi shiva jyothirlinga stotram free

श्री शिव भुजंगम स्तोत्रम

Wednesday, September 7th, 2011

 

श्री शिव  भुजंगम स्तोत्रम – Sri Shiva Bhujanga Stotram

गलद्दानगण्डं मिलद्भृङ्गषण्डं
चलच्चारुशुण्डं जगत्त्राणशौण्डम् ।
कनद्दन्तकाण्डं विपद्भङ्गचण्डं
शिवप्रॆमपिण्डं भजॆ वक्रतुण्डम् ॥ 1 ॥

अनाद्यन्तमाद्यं परं तत्त्वमर्थं
चिदाकारमॆकं तुरीयं त्वमॆयम् ।
हरिब्रह्ममृग्यं परब्रह्मरूपं
मनॊवागतीतं महःशैवमीडॆ ॥ 2 ॥

स्वशक्त्यादि शक्त्यन्त सिंहासनस्थं
मनॊहारि सर्वाङ्गरत्नॊरुभूषम् ।
जटाहीन्दुगङ्गास्थिशम्याकमौलिं
पराशक्तिमित्रं नमः पञ्चवक्त्रम् ॥ 3 ॥

शिवॆशानतत्पूरुषाघॊरवामादिभिः
पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः ।
अनौपम्य षट्त्रिंशतं तत्त्वविद्यामतीतं
परं त्वां कथं वॆत्ति कॊ वा ॥ 4 ॥

प्रवालप्रवाहप्रभाशॊणमर्धं
मरुत्वन्मणि श्रीमहः श्याममर्धम् ।
गुणस्यूतमॆतद्वपुः शैवमन्तः
स्मरामि स्मरापत्तिसम्पत्तिहॆतॊः ॥ 5 ॥

स्वसॆवासमायातदॆवासुरॆन्द्रा
नमन्मौलिमन्दारमालाभिषिक्तम् ।
नमस्यामि शम्भॊ पदाम्भॊरुहं तॆ
भवाम्भॊधिपॊतं भवानी विभाव्यम् ॥ 6 ॥

जगन्नाथ मन्नाथ गौरीसनाथ
प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् ।
महःस्तॊममूर्तॆ समस्तैकबन्धॊ
नमस्तॆ नमस्तॆ पुनस्तॆ नमॊ‌உस्तु ॥ 7 ॥

विरूपाक्ष विश्वॆश विश्वादिदॆव
त्रयी मूल शम्भॊ शिव त्र्यम्बक त्वम् ।
प्रसीद स्मर त्राहि पश्यावमुक्त्यै
क्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मॊदात् ॥ 8 ॥

महादॆव दॆवॆश दॆवादिदॆव
स्मरारॆ पुरारॆ यमारॆ हरॆति ।
ब्रुवाणः स्मरिष्यामि भक्त्या
भवन्तं ततॊ मॆ दयाशील दॆव प्रसीद ॥ 9 ॥

त्वदन्यः शरण्यः प्रपन्नस्य नॆति
प्रसीद स्मरन्नॆव हन्यास्तु दैन्यम् ।
न चॆत्तॆ भवॆद्भक्तवात्सल्यहानिस्ततॊ
मॆ दयालॊ सदा सन्निधॆहि ॥ 10 ॥

अयं दानकालस्त्वहं दानपात्रं
भवानॆव दाता त्वदन्यं न याचॆ ।
भवद्भक्तिमॆव स्थिरां दॆहि मह्यं
कृपाशील शम्भॊ कृतार्थॊ‌உस्मि तस्मात् ॥ 11 ॥

पशुं वॆत्सि चॆन्मां तमॆवाधिरूढः
कलङ्कीति वा मूर्ध्नि धत्सॆ तमॆव ।
द्विजिह्वः पुनः सॊ‌உपि तॆ कण्ठभूषा
त्वदङ्गीकृताः शर्व सर्वॆ‌உपि धन्याः ॥ 12 ॥

न शक्नॊमि कर्तुं परद्रॊहलॆशं
कथं प्रीयसॆ त्वं न जानॆ गिरीश ।
तथाहि प्रसन्नॊ‌உसि कस्यापि
कान्तासुतद्रॊहिणॊ वा पितृद्रॊहिणॊ वा ॥ 13 ॥

स्तुतिं ध्यानमर्चां यथावद्विधातुं
भजन्नप्यजानन्महॆशावलम्बॆ ।
त्रसन्तं सुतं त्रातुमग्रॆ
मृकण्डॊर्यमप्राणनिर्वापणं त्वत्पदाब्जम् ॥ 14 ॥

शिरॊ दृष्टि हृद्रॊग शूल प्रमॆहज्वरार्शॊ जरायक्ष्महिक्काविषार्तान् ।
त्वमाद्यॊ भिषग्भॆषजं भस्म शम्भॊ
त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ 15 ॥

दरिद्रॊ‌உस्म्यभद्रॊ‌உस्मि भग्नॊ‌உस्मि दूयॆ
विषण्णॊ‌உस्मि सन्नॊ‌உस्मि खिन्नॊ‌உस्मि चाहम् ।
भवान्प्राणिनामन्तरात्मासि शम्भॊ
ममाधिं न वॆत्सि प्रभॊ रक्ष मां त्वम् ॥ 16 ॥

त्वदक्ष्णॊः कटाक्षः पतॆत्त्र्यक्ष यत्र
क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणातॆ ।
किरीटस्फुरच्चामरच्छत्रमालाकलाचीगजक्षौमभूषाविशॆषैः ॥ 17 ॥

भवान्यै भवायापि मात्रॆ च पित्रॆ
मृडान्यै मृडायाप्यघघ्न्यै मखघ्नॆ ।
शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायै
शिवायाम्बिकायै नमस्त्र्यम्बकाय ॥ 18 ॥

भवद्गौरवं मल्लघुत्वं विदित्वा
प्रभॊ रक्ष कारुण्यदृष्ट्यानुगं माम् ।
शिवात्मानुभावस्तुतावक्षमॊ‌உहं
स्वशक्त्या कृतं मॆ‌உपराधं क्षमस्व ॥ 19 ॥

यदा कर्णरन्ध्रं व्रजॆत्कालवाहद्विषत्कण्ठघण्टा घणात्कारनादः ।
वृषाधीशमारुह्य दॆवौपवाह्यन्तदा
वत्स मा भीरिति प्रीणय त्वम् ॥ 20 ॥

यदा दारुणाभाषणा भीषणा मॆ
भविष्यन्त्युपान्तॆ कृतान्तस्य दूताः ।
तदा मन्मनस्त्वत्पदाम्भॊरुहस्थं
कथं निश्चलं स्यान्नमस्तॆ‌உस्तु शम्भॊ ॥ 21 ॥

यदा दुर्निवारव्यथॊ‌உहं शयानॊ
लुठन्निःश्वसन्निःसृताव्यक्तवाणिः ।
तदा जह्नुकन्याजलालङ्कृतं तॆ
जटामण्डलं मन्मनॊमन्दिरॆ स्यात् ॥ 22 ॥

यदा पुत्रमित्रादयॊ मत्सकाशॆ
रुदन्त्यस्य हा कीदृशीयं दशॆति ।
तदा दॆवदॆवॆश गौरीश शम्भॊ
नमस्तॆ शिवायॆत्यजस्रं ब्रवाणि ॥ 23 ॥

यदा पश्यतां मामसौ वॆत्ति
नास्मानयं श्वास ऎवॆति वाचॊ भवॆयुः ।
तदा भूतिभूषं भुजङ्गावनद्धं
पुरारॆ भवन्तं स्फुटं भावयॆयम् ॥ 24 ॥

यदा यातनादॆहसन्दॆहवाही
भवॆदात्मदॆहॆ न मॊहॊ महान्मॆ ।
तदा काशशीतांशुसङ्काशमीश
स्मरारॆ वपुस्तॆ नमस्तॆ स्मरामि ॥ 25 ॥

यदापारमच्छायमस्थानमद्भिर्जनैर्वा विहीनं गमिष्यामि मार्गम् ।
तदा तं निरुन्धङ्कृतान्तस्य मार्गं
महादॆव मह्यं मनॊज्ञं प्रयच्छ ॥ 26 ॥

यदा रौरवादि स्मरन्नॆव भीत्या
व्रजाम्यत्र मॊहं महादॆव घॊरम् ।
तदा मामहॊ नाथ कस्तारयिष्यत्यनाथं पराधीनमर्धॆन्दुमौलॆ ॥ 27 ॥

यदा श्वॆतपत्रायतालङ्घ्यशक्तॆः
कृतान्ताद्भयं भक्तिवात्सल्यभावात् ।
तदा पाहि मां पार्वतीवल्लभान्यं
न पश्यामि पातारमॆतादृशं मॆ ॥ 28 ॥

इदानीमिदानीं मृतिर्मॆ भवित्रीत्यहॊ सन्ततं चिन्तया पीडितॊ‌உस्मि ।
कथं नाम मा भून्मृतौ भीतिरॆषा
नमस्तॆ गतीनां गतॆ नीलकण्ठ ॥ 29 ॥

अमर्यादमॆवाहमाबालवृद्धं
हरन्तं कृतान्तं समीक्ष्यास्मि भीतः ।
मृतौ तावकाङ्घ्र्यब्जदिव्यप्रसादाद्भवानीपतॆ निर्भयॊ‌உहं भवानि ॥ 30 ॥

जराजन्मगर्भाधिवासादिदुःखान्यसह्यानि जह्यां जगन्नाथ दॆव ।
भवन्तं विना मॆ गतिर्नैव शम्भॊ
दयालॊ न जागर्ति किं वा दया तॆ ॥ 31 ॥

शिवायॆति शब्दॊ नमःपूर्व ऎष
स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची ।
महॆशान मा गान्मनस्तॊ वचस्तः
सदा मह्यमॆतत्प्रदानं प्रयच्छ ॥ 32 ॥

त्वमप्यम्ब मां पश्य शीतांशुमौलिप्रियॆ भॆषजं त्वं भवव्याधिशान्तौ
बहुक्लॆशभाजं पदाम्भॊजपॊतॆ
भवाब्धौ निमग्नं नयस्वाद्य पारम् ॥ 33 ॥

अनुद्यल्ललाटाक्षि वह्नि प्ररॊहैरवामस्फुरच्चारुवामॊरुशॊभैः ।
अनङ्गभ्रमद्भॊगिभूषाविशॆषैरचन्द्रार्धचूडैरलं दैवतैर्नः ॥ 34 ॥

अकण्ठॆकलङ्कादनङ्गॆभुजङ्गादपाणौकपालादफालॆ‌உनलाक्षात् ।
अमौलौशशाङ्कादवामॆकलत्रादहं दॆवमन्यं न मन्यॆ न मन्यॆ ॥ 35 ॥

महादॆव शम्भॊ गिरीश त्रिशूलिंस्त्वदीयं समस्तं विभातीति यस्मात् ।
शिवादन्यथा दैवतं नाभिजानॆ
शिवॊ‌உहं शिवॊ‌உहं शिवॊ‌உहं शिवॊ‌உहम् ॥ 36 ॥

यतॊ‌உजायतॆदं प्रपञ्चं विचित्रं
स्थितिं याति यस्मिन्यदॆकान्तमन्तॆ ।
स कर्मादिहीनः स्वयञ्ज्यॊतिरात्मा
शिवॊ‌உहं शिवॊ‌உहं शिवॊ‌உहं शिवॊ‌உहम् ॥ 37 ॥

किरीटॆ निशॆशॊ ललाटॆ हुताशॊ
भुजॆ भॊगिराजॊ गलॆ कालिमा च ।
तनौ कामिनी यस्य तत्तुल्यदॆवं
न जानॆ न जानॆ न जानॆ न जानॆ ॥ 38 ॥

अनॆन स्तवॆनादरादम्बिकॆशं
परां भक्तिमासाद्य यं यॆ नमन्ति ।
मृतौ निर्भयास्तॆ जनास्तं भजन्तॆ
हृदम्भॊजमध्यॆ सदासीनमीशम् ॥ 39 ॥

भुजङ्गप्रियाकल्प शम्भॊ मयैवं
भुजङ्गप्रयातॆन वृत्तॆन क्लृप्तम् ।
नरः स्तॊत्रमॆतत्पठित्वॊरुभक्त्या
सुपुत्रायुरारॊग्यमैश्वर्यमॆति ॥ 40 ॥

shiva bhujangastotram hindi, siva bhujangam stotram in hindi, lord shiva bujanga stotram in hindi, hindi shiva stotras

श्री शिव तन्दावा स्तोत्रं

Wednesday, September 7th, 2011

श्री शिव तन्दावा स्तोत्रं – Sri Shiva Thandav Stotram

 

जटाटवीगलज्जलप्रवाहपावितस्थलॆ
गलॆवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम् ।
डमड्डमड्डमड्डमन्निनादवड्डमर्वयं
चकार चण्डताण्डवं तनॊतु नः शिवः शिवम् ॥ 1 ॥

जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी-
-विलॊलवीचिवल्लरीविराजमानमूर्धनि ।
धगद्धगद्धगज्ज्वलल्ललाटपट्टपावकॆ
किशॊरचन्द्रशॆखरॆ रतिः प्रतिक्षणं मम ॥ 2 ॥

धराधरॆन्द्रनन्दिनीविलासबन्धुबन्धुर
स्फुरद्दिगन्तसन्ततिप्रमॊदमानमानसॆ ।
कृपाकटाक्षधॊरणीनिरुद्धदुर्धरापदि
क्वचिद्दिगम्बरॆ मनॊ विनॊदमॆतु वस्तुनि ॥ 3 ॥

जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभा
कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखॆ ।
मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमॆदुरॆ
मनॊ विनॊदमद्भुतं बिभर्तु भूतभर्तरि ॥ 4 ॥

सहस्रलॊचनप्रभृत्यशॆषलॆखशॆखर
प्रसूनधूलिधॊरणी विधूसराङ्घ्रिपीठभूः ।
भुजङ्गराजमालया निबद्धजाटजूटक
श्रियै चिराय जायतां चकॊरबन्धुशॆखरः ॥ 5 ॥

ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गभा-
-निपीतपञ्चसायकं नमन्निलिम्पनायकम् ।
सुधामयूखलॆखया विराजमानशॆखरं
महाकपालिसम्पदॆशिरॊजटालमस्तु नः ॥ 6 ॥

करालफालपट्टिकाधगद्धगद्धगज्ज्वल-
द्धनञ्जयाधरीकृतप्रचण्डपञ्चसायकॆ ।
धराधरॆन्द्रनन्दिनीकुचाग्रचित्रपत्रक-
-प्रकल्पनैकशिल्पिनि त्रिलॊचनॆ मतिर्मम ॥ 7 ॥

नवीनमॆघमण्डली निरुद्धदुर्धरस्फुरत्-
कुहूनिशीथिनीतमः प्रबन्धबन्धुकन्धरः ।
निलिम्पनिर्झरीधरस्तनॊतु कृत्तिसिन्धुरः
कलानिधानबन्धुरः श्रियं जगद्धुरन्धरः ॥ 8 ॥

प्रफुल्लनीलपङ्कजप्रपञ्चकालिमप्रभा-
-विलम्बिकण्ठकन्दलीरुचिप्रबद्धकन्धरम् ।
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं
गजच्छिदान्धकच्छिदं तमन्तकच्छिदं भजॆ ॥ 9 ॥

अगर्वसर्वमङ्गलाकलाकदम्बमञ्जरी
रसप्रवाहमाधुरी विजृम्भणामधुव्रतम् ।
स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकं
गजान्तकान्धकान्तकं तमन्तकान्तकं भजॆ ॥ 10 ॥

जयत्वदभ्रविभ्रमभ्रमद्भुजङ्गमश्वस-
-द्विनिर्गमत्क्रमस्फुरत्करालफालहव्यवाट् ।
धिमिद्धिमिद्धिमिध्वनन्मृदङ्गतुङ्गमङ्गल
ध्वनिक्रमप्रवर्तित प्रचण्डताण्डवः शिवः ॥ 11 ॥

दृषद्विचित्रतल्पयॊर्भुजङ्गमौक्तिकस्रजॊर्-
-गरिष्ठरत्नलॊष्ठयॊः सुहृद्विपक्षपक्षयॊः ।
तृष्णारविन्दचक्षुषॊः प्रजामहीमहॆन्द्रयॊः
समं प्रवर्तयन्मनः कदा सदाशिवं भजॆ ॥ 12 ॥

कदा निलिम्पनिर्झरीनिकुञ्जकॊटरॆ वसन्
विमुक्तदुर्मतिः सदा शिरःस्थमञ्जलिं वहन् ।
विमुक्तलॊललॊचनॊ ललाटफाललग्नकः
शिवॆति मन्त्रमुच्चरन् सदा सुखी भवाम्यहम् ॥ 13 ॥

इमं हि नित्यमॆवमुक्तमुत्तमॊत्तमं स्तवं
पठन्स्मरन्ब्रुवन्नरॊ विशुद्धिमॆतिसन्ततम् ।
हरॆ गुरौ सुभक्तिमाशु याति नान्यथा गतिं
विमॊहनं हि दॆहिनां सुशङ्करस्य चिन्तनम् ॥ 14 ॥

पूजावसानसमयॆ दशवक्त्रगीतं यः
शम्भुपूजनपरं पठति प्रदॊषॆ ।
तस्य स्थिरां रथगजॆन्द्रतुरङ्गयुक्तां
लक्ष्मीं सदैव सुमुखिं प्रददाति शम्भुः ॥ 15 ॥

tags: sri shiva tandava stotram, shiva thandava stotram in hindi, siva thandava stotram hindi, free hindi lord shiva stotrams free, siva thandava stotra online, downlaod, maha shvia stotrams, siva stotram in hindi free, in hindi scripts

श्री शिव अश्तोत्तारा सतानामा स्तोत्रं

Wednesday, September 7th, 2011

श्री शिव अश्तोत्तारा सतानामा स्तोत्रं – Shiva Ashtottara Satanama Stotram

 

शिवॊ महॆश्वरश्शम्भुः पिनाकी शशिशॆखरः
वामदॆवॊ विरूपाक्षः कपर्दी नीललॊहितः ॥ 1 ॥

शङ्करश्शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः
शिपिविष्टॊम्बिकानाथः श्रीकण्ठॊ भक्तवत्सलः ॥ 2 ॥

भवश्शर्वस्त्रिलॊकॆशः शितिकण्ठः शिवप्रियः
उग्रः कपाली कामारी अन्धकासुरसूदनः ॥ 3 ॥

गङ्गाधरॊ ललाटाक्षः कालकालः कृपानिधिः
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥ 4 ॥

कैलासवासी कवची कठॊरस्त्रिपुरान्तकः
वृषाङ्कॊ वृषभारूढॊ भस्मॊद्धूलितविग्रहः ॥ 5 ॥

सामप्रियस्स्वरमयस्त्रयीमूर्तिरनीश्वरः
सर्वज्ञः परमात्मा च सॊमसूर्याग्निलॊचनः ॥ 6 ॥

हविर्यज्ञमयस्सॊमः पञ्चवक्त्रस्सदाशिवः
विश्वॆश्वरॊ वीरभद्रॊ गणनाथः प्रजापतिः ॥ 7 ॥

हिरण्यरॆतः दुर्धर्षः गिरीशॊ गिरिशॊनघः
भुजङ्गभूषणॊ भर्गॊ गिरिधन्वी गिरिप्रियः ॥ 8 ॥

कृत्तिवासः पुरारातिर्भगवान् प्रमथाधिपः
मृत्युञ्जयस्सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥ 9 ॥

व्यॊमकॆशॊ महासॆनजनकश्चारुविक्रमः
रुद्रॊ भूतपतिः स्थाणुरहिर्भुध्नॊ दिगम्बरः ॥ 10 ॥

अष्टमूर्तिरनॆकात्मा सात्त्विकश्शुद्धविग्रहः
शाश्वतः खण्डपरशुरजः पाशविमॊचकः ॥ 11 ॥

मृडः पशुपतिर्दॆवॊ महादॆवॊ‌உव्ययॊ हरिः
भगनॆत्रभिदव्यक्तॊ दक्षाध्वरहरॊ हरः ॥ 12 ॥

पूषदन्तभिदव्यग्रॊ सहस्राक्षस्सहस्रपात्
अपवर्गप्रदॊ‌உनन्तस्तारकः परमॆश्वरः ॥ 13 ॥

ऎवं श्री शम्भुदॆवस्य नाम्नामष्टॊत्तरंशतम् ॥

tags: shiva ashtottara stotram hindi, siva ashtotara stotram hindi, shiva stotram hindi, online, download, in hindi free

श्री उमा महेस्वारा स्तोत्रं

Thursday, September 1st, 2011

श्री उमा महेस्वारा स्तोत्रं – Sri Uma Maheswara Stotram

 

नमः शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुर्धराभ्याम् ।
नगॆन्द्रकन्यावृषकॆतनाभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 1 ॥

नमः शिवाभ्यां सरसॊत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणॆनार्चितपादुकाभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 2 ॥

नमः शिवाभ्यां वृषवाहनाभ्यां
विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।
विभूतिपाटीरविलॆपनाभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 3 ॥

नमः शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्याम् ।
जम्भारिमुख्यैरभिवन्दिताभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 4 ॥

नमः शिवाभ्यां परमौषधाभ्यां
पञ्चाक्षरीपञ्जररञ्जिताभ्याम् ।
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 5 ॥

नमः शिवाभ्यामतिसुन्दराभ्यां
अत्यन्तमासक्तहृदम्बुजाभ्याम् ।
अशॆषलॊकैकहितङ्कराभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 6 ॥

नमः शिवाभ्यां कलिनाशनाभ्यां
कङ्कालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थितदॆवताभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 7 ॥

नमः शिवाभ्यामशुभापहाभ्यां
अशॆषलॊकैकविशॆषिताभ्याम् ।
अकुण्ठिताभ्यां स्मृतिसम्भृताभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 8 ॥

नमः शिवाभ्यां रथवाहनाभ्यां
रवीन्दुवैश्वानरलॊचनाभ्याम् ।
राकाशशाङ्काभमुखाम्बुजाभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 9 ॥

नमः शिवाभ्यां जटिलन्धराभ्यां
जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जॊद्भवपूजिताभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 10 ॥

नमः शिवाभ्यां विषमॆक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृद्भ्याम् ।
शॊभावतीशान्तवतीश्वराभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 11 ॥

नमः शिवाभ्यां पशुपालकाभ्यां
जगत्रयीरक्षणबद्धहृद्भ्याम् ।
समस्तदॆवासुरपूजिताभ्यां
नमॊ नमः शङ्करपार्वतीभ्याम् ॥ 12 ॥

स्तॊत्रं त्रिसन्ध्यं शिवपार्वतीभ्यां
भक्त्या पठॆद्द्वादशकं नरॊ यः ।
स सर्वसौभाग्यफलानि
भुङ्क्तॆ शतायुरान्तॆ शिवलॊकमॆति ॥ 13 ॥

tags: uma maheswara stotram hindi, sri uma maheshwara stotram hindi, umamaheshawara stotram hindi, hindi shiva slokas, hindi lord shiva pujas and slokas free, shiva stotras hindi, hindi devotional pujas, shiva parvathi, parvathi devi

श्री शिव सहस्रनामा स्तोत्रं

Thursday, September 1st, 2011

श्री शिव सहस्रनामा स्तोत्रं – Shiva Sahastranama Stotram

ॐ स्थिरः स्थाणुः प्रभुर्भानुः प्रवरॊ वरदॊ वरः ।
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरॊ भवः ॥ 1 ॥

जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वाङ्गः सर्वभावनः ।
हरिश्च हरिणाक्शश्च सर्वभूतहरः प्रभुः ॥ 2 ॥

प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतॊ ध्रुवः ।
श्मशानचारी भगवानः खचरॊ गॊचरॊ‌உर्दनः ॥ 3 ॥

अभिवाद्यॊ महाकर्मा तपस्वी भूत भावनः ।
उन्मत्तवॆषप्रच्छन्नः सर्वलॊकप्रजापतिः ॥ 4 ॥

महारूपॊ महाकायॊ वृषरूपॊ महायशाः ।
महा‌உ‌உत्मा सर्वभूतश्च विरूपॊ वामनॊ मनुः ॥ 5 ॥

लॊकपालॊ‌உन्तर्हितात्मा प्रसादॊ हयगर्दभिः ।
पवित्रश्च महांश्चैव नियमॊ नियमाश्रयः ॥ 6 ॥

सर्वकर्मा स्वयम्भूश्चादिरादिकरॊ निधिः ।
सहस्राक्शॊ विरूपाक्शः सॊमॊ नक्शत्रसाधकः ॥ 7 ॥

चन्द्रः सूर्यः गतिः कॆतुर्ग्रहॊ ग्रहपतिर्वरः ।
अद्रिरद्{}र्यालयः कर्ता मृगबाणार्पणॊ‌உनघः ॥ 8 ॥

महातपा घॊर तपा‌உदीनॊ दीनसाधकः ।
संवत्सरकरॊ मन्त्रः प्रमाणं परमं तपः ॥ 9 ॥

यॊगी यॊज्यॊ महाबीजॊ महारॆता महातपाः ।
सुवर्णरॆताः सर्वघ्य़ः सुबीजॊ वृषवाहनः ॥ 10 ॥

दशबाहुस्त्वनिमिषॊ नीलकण्ठ उमापतिः ।
विश्वरूपः स्वयं श्रॆष्ठॊ बलवीरॊ‌உबलॊगणः ॥ 11 ॥

गणकर्ता गणपतिर्दिग्वासाः काम ऎव च ।
पवित्रं परमं मन्त्रः सर्वभाव करॊ हरः ॥ 12 ॥

कमण्डलुधरॊ धन्वी बाणहस्तः कपालवानः ।
अशनी शतघ्नी खड्गी पट्टिशी चायुधी महानः ॥ 13 ॥

स्रुवहस्तः सुरूपश्च तॆजस्तॆजस्करॊ निधिः ।
उष्णिषी च सुवक्त्रश्चॊदग्रॊ विनतस्तथा ॥ 14 ॥

दीर्घश्च हरिकॆशश्च सुतीर्थः कृष्ण ऎव च ।
सृगाल रूपः सर्वार्थॊ मुण्डः कुण्डी कमण्डलुः ॥ 15 ॥

अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि ।
उर्ध्वरॆतॊर्ध्वलिङ्ग उर्ध्वशायी नभस्तलः ॥ 16 ॥

त्रिजटैश्चीरवासाश्च रुद्रः सॆनापतिर्विभुः ।
अहश्चरॊ‌உथ नक्तं च तिग्ममन्युः सुवर्चसः ॥ 17 ॥

गजहा दैत्यहा लॊकॊ लॊकधाता गुणाकरः ।
सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥ 18 ॥

कालयॊगी महानादः सर्ववासश्चतुष्पथः ।
निशाचरः प्रॆतचारी भूतचारी महॆश्वरः ॥ 19 ॥

बहुभूतॊ बहुधनः सर्वाधारॊ‌உमितॊ गतिः ।
नृत्यप्रियॊ नित्यनर्तॊ नर्तकः सर्वलासकः ॥ 20 ॥

घॊरॊ महातपाः पाशॊ नित्यॊ गिरि चरॊ नभः ।
सहस्रहस्तॊ विजयॊ व्यवसायॊ ह्यनिन्दितः ॥ 21 ॥

अमर्षणॊ मर्षणात्मा यघ्य़हा कामनाशनः ।
दक्शयघ्य़ापहारी च सुसहॊ मध्यमस्तथा ॥ 22 ॥

तॆजॊ‌உपहारी बलहा मुदितॊ‌உर्थॊ‌உजितॊ वरः ।
गम्भीरघॊषॊ गम्भीरॊ गम्भीर बलवाहनः ॥ 23 ॥

न्यग्रॊधरूपॊ न्यग्रॊधॊ वृक्शकर्णस्थितिर्विभुः ।
सुदीक्श्णदशनश्चैव महाकायॊ महाननः ॥ 24 ॥

विष्वक्सॆनॊ हरिर्यघ्य़ः संयुगापीडवाहनः ।
तीक्श्ण तापश्च हर्यश्वः सहायः कर्मकालवितः ॥ 25 ॥

विष्णुप्रसादितॊ यघ्य़ः समुद्रॊ वडवामुखः ।
हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ 26 ॥

उग्रतॆजा महातॆजा जयॊ विजयकालवितः ।
ज्यॊतिषामयनं सिद्धिः सन्धिर्विग्रह ऎव च ॥ 27 ॥

शिखी दण्डी जटी ज्वाली मूर्तिजॊ मूर्धगॊ बली ।
वैणवी पणवी ताली कालः कालकटङ्कटः ॥ 28 ॥

नक्शत्रविग्रह विधिर्गुणवृद्धिर्लयॊ‌உगमः ।
प्रजापतिर्दिशा बाहुर्विभागः सर्वतॊमुखः ॥ 29 ॥

विमॊचनः सुरगणॊ हिरण्यकवचॊद्भवः ।
मॆढ्रजॊ बलचारी च महाचारी स्तुतस्तथा ॥ 30 ॥

सर्वतूर्य निनादी च सर्ववाद्यपरिग्रहः ।
व्यालरूपॊ बिलावासी हॆममाली तरङ्गवितः ॥ 31 ॥

त्रिदशस्त्रिकालधृकः कर्म सर्वबन्धविमॊचनः ।
बन्धनस्त्वासुरॆन्द्राणां युधि शत्रुविनाशनः ॥ 32 ॥

साङ्ख्यप्रसादॊ सुर्वासाः सर्वसाधुनिषॆवितः ।
प्रस्कन्दनॊ विभागश्चातुल्यॊ यघ्य़भागवितः ॥ 33 ॥

सर्वावासः सर्वचारी दुर्वासा वासवॊ‌உमरः ।
हॆमॊ हॆमकरॊ यघ्य़ः सर्वधारी धरॊत्तमः ॥ 34 ॥

लॊहिताक्शॊ महा‌உक्शश्च विजयाक्शॊ विशारदः ।
सङ्ग्रहॊ निग्रहः कर्ता सर्पचीरनिवासनः ॥ 35 ॥

मुख्यॊ‌உमुख्यश्च दॆहश्च दॆह ऋद्धिः सर्वकामदः ।
सर्वकामप्रसादश्च सुबलॊ बलरूपधृकः ॥ 36 ॥

सर्वकामवरश्चैव सर्वदः सर्वतॊमुखः ।
आकाशनिधिरूपश्च निपाती उरगः खगः ॥ 37 ॥

रौद्ररूपॊं‌உशुरादित्यॊ वसुरश्मिः सुवर्चसी ।
वसुवॆगॊ महावॆगॊ मनॊवॆगॊ निशाचरः ॥ 38 ॥

सर्वावासी श्रियावासी उपदॆशकरॊ हरः ।
मुनिरात्म पतिर्लॊकॆ सम्भॊज्यश्च सहस्रदः ॥ 39 ॥

पक्शी च पक्शिरूपी चातिदीप्तॊ विशाम्पतिः ।
उन्मादॊ मदनाकारॊ अर्थार्थकर रॊमशः ॥ 40 ॥

वामदॆवश्च वामश्च प्राग्दक्शिणश्च वामनः ।
सिद्धयॊगापहारी च सिद्धः सर्वार्थसाधकः ॥ 41 ॥

भिक्शुश्च भिक्शुरूपश्च विषाणी मृदुरव्ययः ।
महासॆनॊ विशाखश्च षष्टिभागॊ गवाम्पतिः ॥ 42 ॥

वज्रहस्तश्च विष्कम्भी चमूस्तम्भनैव च ।
ऋतुरृतु करः कालॊ मधुर्मधुकरॊ‌உचलः ॥ 43 ॥

वानस्पत्यॊ वाजसॆनॊ नित्यमाश्रमपूजितः ।
ब्रह्मचारी लॊकचारी सर्वचारी सुचारवितः ॥ 44 ॥

ईशान ईश्वरः कालॊ निशाचारी पिनाकधृकः ।
निमित्तस्थॊ निमित्तं च नन्दिर्नन्दिकरॊ हरिः ॥ 45 ॥

नन्दीश्वरश्च नन्दी च नन्दनॊ नन्दिवर्धनः ।
भगस्याक्शि निहन्ता च कालॊ ब्रह्मविदांवरः ॥ 46 ॥

चतुर्मुखॊ महालिङ्गश्चारुलिङ्गस्तथैव च ।
लिङ्गाध्यक्शः सुराध्यक्शॊ लॊकाध्यक्शॊ युगावहः ॥ 47 ॥

बीजाध्यक्शॊ बीजकर्ता‌உध्यात्मानुगतॊ बलः ।
इतिहास करः कल्पॊ गौतमॊ‌உथ जलॆश्वरः ॥ 48 ॥

दम्भॊ ह्यदम्भॊ वैदम्भॊ वैश्यॊ वश्यकरः कविः ।
लॊक कर्ता पशु पतिर्महाकर्ता महौषधिः ॥ 49 ॥

अक्शरं परमं ब्रह्म बलवानः शक्र ऎव च ।
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धॊ मान्यॊ मनॊगतिः ॥ 50 ॥

बहुप्रसादः स्वपनॊ दर्पणॊ‌உथ त्वमित्रजितः ।
वॆदकारः सूत्रकारॊ विद्वानः समरमर्दनः ॥ 51 ॥

महामॆघनिवासी च महाघॊरॊ वशीकरः ।
अग्निज्वालॊ महाज्वालॊ अतिधूम्रॊ हुतॊ हविः ॥ 52 ॥

वृषणः शङ्करॊ नित्यॊ वर्चस्वी धूमकॆतनः ।
नीलस्तथा‌உङ्गलुब्धश्च शॊभनॊ निरवग्रहः ॥ 53 ॥

स्वस्तिदः स्वस्तिभावश्च भागी भागकरॊ लघुः ।
उत्सङ्गश्च महाङ्गश्च महागर्भः परॊ युवा ॥ 54 ॥

कृष्णवर्णः सुवर्णश्चॆन्द्रियः सर्वदॆहिनामः ।
महापादॊ महाहस्तॊ महाकायॊ महायशाः ॥ 55 ॥

महामूर्धा महामात्रॊ महानॆत्रॊ दिगालयः ।
महादन्तॊ महाकर्णॊ महामॆढ्रॊ महाहनुः ॥ 56 ॥

महानासॊ महाकम्बुर्महाग्रीवः श्मशानधृकः ।
महावक्शा महॊरस्कॊ अन्तरात्मा मृगालयः ॥ 57 ॥

लम्बनॊ लम्बितॊष्ठश्च महामायः पयॊनिधिः ।
महादन्तॊ महादंष्ट्रॊ महाजिह्वॊ महामुखः ॥ 58 ॥

महानखॊ महारॊमा महाकॆशॊ महाजटः ।
असपत्नः प्रसादश्च प्रत्ययॊ गिरि साधनः ॥ 59 ॥

स्नॆहनॊ‌உस्नॆहनश्चैवाजितश्च महामुनिः ।
वृक्शाकारॊ वृक्श कॆतुरनलॊ वायुवाहनः ॥ 60 ॥

मण्डली मॆरुधामा च दॆवदानवदर्पहा ।
अथर्वशीर्षः सामास्य ऋकःसहस्रामितॆक्शणः ॥ 61 ॥

यजुः पाद भुजॊ गुह्यः प्रकाशॊ जङ्गमस्तथा ।
अमॊघार्थः प्रसादश्चाभिगम्यः सुदर्शनः ॥ 62 ॥

उपहारप्रियः शर्वः कनकः काझ्ण्चनः स्थिरः ।
नाभिर्नन्दिकरॊ भाव्यः पुष्करस्थपतिः स्थिरः ॥ 63 ॥

द्वादशस्त्रासनश्चाद्यॊ यघ्य़ॊ यघ्य़समाहितः ।
नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ 64 ॥

सगणॊ गण कारश्च भूत भावन सारथिः ।
भस्मशायी भस्मगॊप्ता भस्मभूतस्तरुर्गणः ॥ 65 ॥

अगणश्चैव लॊपश्च महा‌உ‌உत्मा सर्वपूजितः ।
शङ्कुस्त्रिशङ्कुः सम्पन्नः शुचिर्भूतनिषॆवितः ॥ 66 ॥

आश्रमस्थः कपॊतस्थॊ विश्वकर्मापतिर्वरः ।
शाखॊ विशाखस्ताम्रॊष्ठॊ ह्यमुजालः सुनिश्चयः ॥ 67 ॥

कपिलॊ‌உकपिलः शूरायुश्चैव परॊ‌உपरः ।
गन्धर्वॊ ह्यदितिस्तार्क्श्यः सुविघ्य़ॆयः सुसारथिः ॥ 68 ॥

परश्वधायुधॊ दॆवार्थ कारी सुबान्धवः ।
तुम्बवीणी महाकॊपॊर्ध्वरॆता जलॆशयः ॥ 69 ॥

उग्रॊ वंशकरॊ वंशॊ वंशनादॊ ह्यनिन्दितः ।
सर्वाङ्गरूपॊ मायावी सुहृदॊ ह्यनिलॊ‌உनलः ॥ 70 ॥

बन्धनॊ बन्धकर्ता च सुबन्धनविमॊचनः ।
सयघ्य़ारिः सकामारिः महादंष्ट्रॊ महा‌உ‌உयुधः ॥ 71 ॥

बाहुस्त्वनिन्दितः शर्वः शङ्करः शङ्करॊ‌உधनः ।
अमरॆशॊ महादॆवॊ विश्वदॆवः सुरारिहा ॥ 72 ॥

अहिर्बुध्नॊ निरृतिश्च चॆकितानॊ हरिस्तथा ।
अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥ 73 ॥

धन्वन्तरिर्धूमकॆतुः स्कन्दॊ वैश्रवणस्तथा ।
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवॊ धरः ॥ 74 ॥

प्रभावः सर्वगॊ वायुरर्यमा सविता रविः ।
उदग्रश्च विधाता च मान्धाता भूत भावनः ॥ 75 ॥

रतितीर्थश्च वाग्मी च सर्वकामगुणावहः ।
पद्मगर्भॊ महागर्भश्चन्द्रवक्त्रॊमनॊरमः ॥ 76 ॥

बलवांश्चॊपशान्तश्च पुराणः पुण्यचझ्ण्चुरी ।
कुरुकर्ता कालरूपी कुरुभूतॊ महॆश्वरः ॥ 77 ॥

सर्वाशयॊ दर्भशायी सर्वॆषां प्राणिनाम्पतिः ।
दॆवदॆवः मुखॊ‌உसक्तः सदसतः सर्वरत्नवितः ॥ 78 ॥

कैलास शिखरावासी हिमवदः गिरिसंश्रयः ।
कूलहारी कूलकर्ता बहुविद्यॊ बहुप्रदः ॥ 79 ॥

वणिजॊ वर्धनॊ वृक्शॊ नकुलश्चन्दनश्छदः ।
सारग्रीवॊ महाजत्रु रलॊलश्च महौषधः ॥ 80 ॥

सिद्धार्थकारी सिद्धार्थश्चन्दॊ व्याकरणॊत्तरः ।
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ 81 ॥

प्रभावात्मा जगत्कालस्थालॊ लॊकहितस्तरुः ।
सारङ्गॊ नवचक्राङ्गः कॆतुमाली सभावनः ॥ 82 ॥

भूतालयॊ भूतपतिरहॊरात्रमनिन्दितः ॥ 83 ॥

वाहिता सर्वभूतानां निलयश्च विभुर्भवः ।
अमॊघः संयतॊ ह्यश्वॊ भॊजनः प्राणधारणः ॥ 84 ॥

धृतिमानः मतिमानः दक्शः सत्कृतश्च युगाधिपः ।
गॊपालिर्गॊपतिर्ग्रामॊ गॊचर्मवसनॊ हरः ॥ 85 ॥

हिरण्यबाहुश्च तथा गुहापालः प्रवॆशिनामः ।
प्रतिष्ठायी महाहर्षॊ जितकामॊ जितॆन्द्रियः ॥ 86 ॥

गान्धारश्च सुरालश्च तपः कर्म रतिर्धनुः ।
महागीतॊ महानृत्तॊह्यप्सरॊगणसॆवितः ॥ 87 ॥

महाकॆतुर्धनुर्धातुर्नैक सानुचरश्चलः ।
आवॆदनीय आवॆशः सर्वगन्धसुखावहः ॥ 88 ॥

तॊरणस्तारणॊ वायुः परिधावति चैकतः ।
संयॊगॊ वर्धनॊ वृद्धॊ महावृद्धॊ गणाधिपः ॥ 89 ॥

नित्यात्मसहायश्च दॆवासुरपतिः पतिः ।
युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः ॥ 90 ॥

आषाढश्च सुषाडश्च ध्रुवॊ हरि हणॊ हरः ।
वपुरावर्तमानॆभ्यॊ वसुश्रॆष्ठॊ महापथः ॥ 91 ॥

शिरॊहारी विमर्शश्च सर्वलक्शण भूषितः ।
अक्शश्च रथ यॊगी च सर्वयॊगी महाबलः ॥ 92 ॥

समाम्नायॊ‌உसमाम्नायस्तीर्थदॆवॊ महारथः ।
निर्जीवॊ जीवनॊ मन्त्रः शुभाक्शॊ बहुकर्कशः ॥ 93 ॥

रत्न प्रभूतॊ रक्ताङ्गॊ महा‌உर्णवनिपानवितः ।
मूलॊ विशालॊ ह्यमृतॊ व्यक्ताव्यक्तस्तपॊ निधिः ॥ 94 ॥

आरॊहणॊ निरॊहश्च शलहारी महातपाः ।
सॆनाकल्पॊ महाकल्पॊ युगायुग करॊ हरिः ॥ 95 ॥

युगरूपॊ महारूपॊ पवनॊ गहनॊ नगः ।
न्याय निर्वापणः पादः पण्डितॊ ह्यचलॊपमः ॥ 96 ॥

बहुमालॊ महामालः सुमालॊ बहुलॊचनः ।
विस्तारॊ लवणः कूपः कुसुमः सफलॊदयः ॥ 97 ॥

वृषभॊ वृषभाङ्काङ्गॊ मणि बिल्वॊ जटाधरः ।
इन्दुर्विसर्वः सुमुखः सुरः सर्वायुधः सहः ॥ 98 ॥

निवॆदनः सुधाजातः सुगन्धारॊ महाधनुः ।
गन्धमाली च भगवानः उत्थानः सर्वकर्मणामः ॥ 99 ॥

मन्थानॊ बहुलॊ बाहुः सकलः सर्वलॊचनः ।
तरस्ताली करस्ताली ऊर्ध्व संहननॊ वहः ॥ 100 ॥

छत्रं सुच्छत्रॊ विख्यातः सर्वलॊकाश्रयॊ महानः ।
मुण्डॊ विरूपॊ विकृतॊ दण्डि मुण्डॊ विकुर्वणः ॥ 101 ॥

हर्यक्शः ककुभॊ वज्री दीप्तजिह्वः सहस्रपातः ।
सहस्रमूर्धा दॆवॆन्द्रः सर्वदॆवमयॊ गुरुः ॥ 102 ॥

सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलॊककृतः ।
पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ॥ 103 ॥

ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृकः ।
पद्मगर्भॊ महागर्भॊ ब्रह्मगर्भॊ जलॊद्भवः ॥ 104 ॥

गभस्तिर्ब्रह्मकृदः ब्रह्मा ब्रह्मविदः ब्राह्मणॊ गतिः ।
अनन्तरूपॊ नैकात्मा तिग्मतॆजाः स्वयम्भुवः ॥ 105 ॥

ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनॊजवः ।
चन्दनी पद्ममाला‌உग्{}र्यः सुरभ्युत्तरणॊ नरः ॥ 106 ॥

कर्णिकार महास्रग्वी नीलमौलिः पिनाकधृकः ।
उमापतिरुमाकान्तॊ जाह्नवी धृगुमाधवः ॥ 107 ॥

वरॊ वराहॊ वरदॊ वरॆशः सुमहास्वनः ।
महाप्रसादॊ दमनः शत्रुहा श्वॆतपिङ्गलः ॥ 108 ॥

प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृकः ।
सर्वपार्श्व सुतस्तार्क्श्यॊ धर्मसाधारणॊ वरः ॥ 109 ॥

चराचरात्मा सूक्श्मात्मा सुवृषॊ गॊ वृषॆश्वरः ।
साध्यर्षिर्वसुरादित्यॊ विवस्वानः सविता‌உमृतः ॥ 110 ॥

व्यासः सर्वस्य सङ्क्शॆपॊ विस्तरः पर्ययॊ नयः ।
ऋतुः संवत्सरॊ मासः पक्शः सङ्ख्या समापनः ॥ 111 ॥

कलाकाष्ठा लवॊमात्रा मुहूर्तॊ‌உहः क्शपाः क्शणाः ।
विश्वक्शॆत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः ॥ 112 ॥

सदसदः व्यक्तमव्यक्तं पिता माता पितामहः ।
स्वर्गद्वारं प्रजाद्वारं मॊक्शद्वारं त्रिविष्टपमः ॥ 113 ॥

निर्वाणं ह्लादनं चैव ब्रह्मलॊकः परागतिः ।
दॆवासुरविनिर्माता दॆवासुरपरायणः ॥ 114 ॥

दॆवासुरगुरुर्दॆवॊ दॆवासुरनमस्कृतः ।
दॆवासुरमहामात्रॊ दॆवासुरगणाश्रयः ॥ 115 ॥

दॆवासुरगणाध्यक्शॊ दॆवासुरगणाग्रणीः ।
दॆवातिदॆवॊ दॆवर्षिर्दॆवासुरवरप्रदः ॥ 116 ॥

दॆवासुरॆश्वरॊदॆवॊ दॆवासुरमहॆश्वरः ।
सर्वदॆवमयॊ‌உचिन्त्यॊ दॆवता‌உ‌உत्मा‌உ‌உत्मसम्भवः ॥ 117 ॥

उद्भिदस्त्रिक्रमॊ वैद्यॊ विरजॊ विरजॊ‌உम्बरः ।
ईड्यॊ हस्ती सुरव्याघ्रॊ दॆवसिंहॊ नरर्षभः ॥ 118 ॥

विबुधाग्रवरः श्रॆष्ठः सर्वदॆवॊत्तमॊत्तमः ।
प्रयुक्तः शॊभनॊ वर्जैशानः प्रभुरव्ययः ॥ 119 ॥

गुरुः कान्तॊ निजः सर्गः पवित्रः सर्ववाहनः ।
शृङ्गी शृङ्गप्रियॊ बभ्रू राजराजॊ निरामयः ॥ 120 ॥

अभिरामः सुरगणॊ विरामः सर्वसाधनः ।
ललाटाक्शॊ विश्वदॆहॊ हरिणॊ ब्रह्मवर्चसः ॥ 121 ॥

स्थावराणाम्पतिश्चैव नियमॆन्द्रियवर्धनः ।
सिद्धार्थः सर्वभूतार्थॊ‌உचिन्त्यः सत्यव्रतः शुचिः ॥ 122 ॥

व्रताधिपः परं ब्रह्म मुक्तानां परमागतिः ।
विमुक्तॊ मुक्ततॆजाश्च श्रीमानः श्रीवर्धनॊ जगतः ॥ 123 ॥

श्रीमानः श्रीवर्धनॊ जगतः ॐ नम इति ॥

इति श्री महाभारतॆ अनुशासन पर्वॆ श्री शिव सहस्रनाम स्तॊत्रम् सम्पूर्णम् ॥

tags; shiva sahastrnama stotram in hindi, hindisahastranama stotram, siva sahastra nama stotram, lord shiva sahastra namam, 1000 names of lord shiva, shiva 1000 names stotram hindi, shiva sahasthram online, download, free

श्री शिव मानसा पूजा

Thursday, September 1st, 2011

श्री शिव मानसा पूजा – Sri Shiva Manasa Puja

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्न विभूषितं मृगमदा मॊदाङ्कितं चन्दनम् ।
जाती चम्पक बिल्वपत्र रचितं पुष्पं च धूपं तथा
दीपं दॆव दयानिधॆ पशुपतॆ हृत्कल्पितं गृह्यताम् ॥ 1 ॥

सौवर्णॆ नवरत्नखण्ड रचितॆ पात्रॆ घृतं पायसं
भक्ष्यं पञ्चविधं पयॊदधियुतं रम्भाफलं पानकम् ।
शाकानामयुतं जलं रुचिकरं कर्पूर खण्डॊज्ज्चलं
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभॊ स्वीकुरु ॥ 2 ॥

छत्रं चामरयॊर्युगं व्यजनकं चादर्शकं निर्मलं
वीणा भॆरि मृदङ्ग काहलकला गीतं च नृत्यं तथा ।
साष्टाङ्गं प्रणतिः स्तुति-र्बहुविधा-ह्यॆतत्-समस्तं मया
सङ्कल्पॆन समर्पितं तव विभॊ पूजां गृहाण प्रभॊ ॥ 3 ॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा तॆ विषयॊपभॊग-रचना निद्रा समाधिस्थितिः ।
सञ्चारः पदयॊः प्रदक्षिणविधिः स्तॊत्राणि सर्वा गिरॊ
यद्यत्कर्म करॊमि तत्तदखिलं शम्भॊ तवाराधनम् ॥ 4 ॥

कर चरण कृतं वाक्कायजं कर्मजं वा
श्रवण नयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमॆतत्-क्षमस्व
जय जय करुणाब्धॆ श्री महादॆव शम्भॊ ॥ 5 ॥

tags: shivamanasa puja in hindi, shivmanasapuja hindi, hindi shiva pooja, manasapuja online, sivamansapuja free

दक्षिणा मूर्ति स्तोत्रम

Thursday, September 1st, 2011

श्री दक्षिणा मूर्ति स्तोत्रम – Sri Dakshina Murthy Stotram

विश्वं दर्पण दृश्यमान नगरी तुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवॊद्भूतं यधा निद्रया ।
यः साक्षात्कुरुतॆ प्रबॊधसमयॆ स्वात्मानमॆ वाद्वयं
तस्मै श्रीगुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ 1 ॥

बीजस्यान्त रिवाङ्कुरॊ जगदितं प्राङ् निर्विकल्पं पुनः
मायाकल्पित दॆशकालकलना वैचित्र्यचित्रीकृतम् ।
मायावीव विजृम्भयत्यपि महायॊगीव यः स्वॆच्छया
तस्मै श्रीगुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ 2 ॥

यस्यैव स्फुरणं सदात्मक मसत्-कल्पार्थकं भासतॆ
साक्षात्-तत्वमसीति वॆदवचसा यॊ बॊधयत्याश्रितान् ।
यस्साक्षात्-करणाद्भवॆन्न पुरनावृत्ति र्भवाम्भॊनिधौ
तस्मै श्रीगुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ 3 ॥

नानाच्छिद्र घटॊदर स्थित महादीप प्रभाभास्वरं
ज्ञानं यस्य तु चक्षुरादिकरण द्वारा बहिः स्पन्दतॆ ।
जानामीति तमॆव भान्तमनुभात्-यॆतत्-समस्तं जगत्
तस्मै श्रीगुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ 4 ॥

दॆहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिञ्चशून्यं विदुः
स्त्री-बालान्ध जडॊपमास्त्वह मिति भ्रान्ता भृशं वादिनः ।
मायाशक्ति विलास कल्पित महाव्यामॊह संहारिणॆ
तस्मै श्रीगुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ 5 ॥

राहुग्रस्त दिवाकरॆन्दु सदृशॊ माया समाच्छादनात्
सन्मात्रः करणॊप संहरणतॊ यॊ‌உभूत्-सुषुप्तः पुमान् ।
प्रागस्वाप्समिति प्रबॊधसमयॆ यः प्रत्यभिज्ञायतॆ
तस्मै श्रीगुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ 6 ॥

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वा स्ववस्थास्वपि
व्यावृत्ता स्वनु वर्तमान महमित्यन्तः स्फुरन्तं सदा ।
स्वात्मानं प्रकटीकरॊति भजतां यॊ मुद्रया भद्रया
तस्मै श्रीगुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ 7 ॥

विश्वं पश्यति कार्यकारणतया स्वस्वामि सम्बन्धतः
शिष्यचार्यतया तथैव पितृ पुत्राद्यात्मना भॆदतः ।
स्वप्नॆ जाग्रति वा य ऎष पुरुषॊ मया परिभ्रामितः
तस्मै श्रीगुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ 8 ॥

भूरम्भां स्यनलॊ‌உनिलॊ‌உम्बर महर्नाथॊ हिमांशुः पुमान्
इत्याभाति चराचरात्मक मिदं यस्यैव मूर्त्यष्टकम् ।
नान्यत्-किञ्चन विद्यतॆ विमृशतां यस्मात् परस्माद्-विभॊः
तस्मै श्रीगुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ 9 ॥

सर्वात्मत्व मिति स्फुटीकृत मिदं यस्मादमुष्मिन् स्तवॆ
तॆनास्य श्रवणात् तदर्थमननाद् ध्यानाच्छ सङ्कीर्तनात् ।
सर्वात्मत्व महाविभूति सहितं स्यादीश्वरत्वं स्वतः
सिद्ध्यॆत्-तत्पुनरष्टधा परिणतं चैश्वर्य मव्याहतम् ॥ 10 ॥

tags: dakshinamurthy stotram in hindi, sakdhinamoorthy stotram hindi, dakshinamurthy stotras in hindi, hindi devotional stotram, hindi slokas, hindi mantras, dakshinemurthy stotrams online free, dhakshina, dhaksinamoorty